Class 9 · SanskritNCERT 2026 Revised Syllabus
Chapter 3: नद्यः
R3 book- Iravati
Find complete NCERT solutions for Class 9 Sanskrit, R3 book- Iravati Chapter 3. Every question has a clear, step-by-step answer.
Jump to:
वयम् अभ्यासं कुर्मः(11 questions)
१ (क)
अधोलिखितानां वाक्यानां पुरतः "सत्यम्/असत्यम्" वा लिखत — गोदावरी नदी पश्चिमसमुद्रं प्रति वहति।
उत्तर:
असत्यम्। गोदावरी नदी पूर्वसमुद्रं प्रति वहति।
१ (ख)
नद्यः कृषिकार्याय जलं प्रयच्छन्ति।
उत्तर:
सत्यम्।
१ (ग)
बन्धं निर्माय जलात् विद्युत् उत्पाद्यते।
उत्तर:
सत्यम्।
१ (घ)
सरस्वती नदी अद्यापि स्वपूर्णप्रवाहेण प्रवहन्ती दृश्यते।
उत्तर:
असत्यम्।
१ (ङ)
भारतवासिनः प्राचीनकालादेव नदीनां सम्मानं कुर्वन्ति।
उत्तर:
सत्यम्।
२ (क)
अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत — भारतस्य मध्यप्रान्ते के नद्यौ प्रसिद्धे स्तः?
उत्तर:
भारतस्य मध्यप्रान्ते नर्मदा ताप्ती च नद्यौ प्रसिद्धे स्तः।
२ (ख)
काः नद्यः पूर्वसमुद्रं प्रति प्रवहन्ति?
उत्तर:
महानदी, गोदावरी, कृष्णा, कावेरी इत्यादयः नद्यः पूर्वसमुद्रं (बङ्गोपसागरं) प्रति प्रवहन्ति।
२ (ग)
हिमालय-शिखरेभ्यः काः नद्यः प्रभवन्ति?
उत्तर:
हिमालय-शिखरेभ्यः गङ्गा, यमुना, सिन्धुः, ब्रह्मपुत्रः इत्यादयः नद्यः प्रभवन्ति।
२ (घ)
पञ्चनदप्रान्ते काः काः नद्यः प्रवहन्ति?
उत्तर:
पञ्चनदप्रान्ते वितस्ता (Jhelum), चन्द्रभागा (Chenab), इरावती (Ravi), विपाशा (Beas), शतद्रुः (Sutlej) च नद्यः प्रवहन्ति।
२ (ङ)
केन कृषिक्षेत्राणि प्लावितानि भवन्ति?
उत्तर:
नदीनां जलेन (अथवा कुल्याभिः) कृषिक्षेत्राणि प्लावितानि भवन्ति।
३
द्वयोः स्तम्भयोः मेलनं कुरुत — स्तम्भः क — कृषिः, बन्धः, जलाशयः, नदी, जलविद्युत् स्तम्भः ख — विद्युदुत्पादनम्, जलसञ्चयः, सेचनम्, मत्स्यानां निवासः, जलमूला विद्युत् (हाइड्रो-इलेक्ट्रिक पावर)
उत्तर:
क. कृषिः — ३. सेचनम्
ख. बन्धः — १. विद्युदुत्पादनम्
ग. जलाशयः — २. जलसञ्चयः
घ. नदी — ४. मत्स्यानां निवासः
ङ. जलविद्युत् — ५. जलमूला विद्युत् (हाइड्रो-इलेक्ट्रिक पावर)
क्रियाकलापः(2 questions)
१
अधोलिखितस्य श्लोकस्य सस्वरम् अभ्यासं कुरुत प्रतिदिनं स्नानकाले उच्चारयत च। गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धुकावेरी जलेऽस्मिन् सन्निधिं कुरु॥
उत्तर:
श्लोकस्य शुद्धोच्चारणं कृत्वा प्रतिदिनं स्नानकाले सस्वरम् उच्चारयेत्।
२
पाठे वर्णितानां नदीनां स्थानानि भारतस्य भौगोलिके मानचित्रे, चिह्नितानि कुरुत।
उत्तर:
गङ्गा — उत्तरभारतस्य प्रमुखा नदी (उत्तरखण्डः, उत्तरप्रदेशः, बिहारः, पश्चिमबङ्गालः)।
यमुना — गङ्गायाः प्रमुखा सहायकनदी (उत्तराखण्डतः प्रयागराजं यावत्)।
गोदावरी — दक्षिणभारतस्य वृहद् नदी (महाराष्ट्रतः आन्ध्रप्रदेशं यावत्)।
सरस्वती — प्राचीना लुप्तप्राया नदी (उत्तर-पश्चिमभारतः / राजस्थान-हरियाणा प्रान्तः)।
नर्मदा — मध्यभारतस्य नदी (मध्यप्रदेशतः गुजरातं प्रति पश्चिमसमुद्रं गच्छति)।
सिन्धुः — उत्तर-पश्चिमदिशि प्रवहन्ती नदी (लद्दाखतः पञ्चनदप्रान्तं प्रति)।
कावेरी — दक्षिणभारतस्य नदी (कर्नाटकतः तमिलनाडु प्रान्तं यावत्)।