SolveNCERT
SolveNCERT
Class 9 · SanskritNCERT 2026 Revised Syllabus

Chapter 3: आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः (0904SK03)

R1 and R2 book- Sharda

Chapter code: 0904sk03 · Book: R1 and R2 book- Sharda · Class 9 Sanskrit

Find complete NCERT solutions for Class 9 Sanskrit, R1 and R2 book- Sharda Chapter 3. Every question has a clear, step-by-step answer for chapter code 0904SK03.

अभ्यासाद् जायते सिद्धिः(45 questions)

१ (क)

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत — मातामही कस्य कथां श्रावितवती?

उत्तर:
मातामही पुण्यश्लोकस्य नामदेवमहाराजस्य कथां श्रावितवती ।
१ (ख)

नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्?

उत्तर:
नामदेवस्य गुरुः नामदेवं अध्यापितवान् यत्- ‘ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति । अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु’ इति ।
१ (ग)

नामदेवः कया भावनया धावनं कृतवान्?

उत्तर:
नामदेवः करुणया भावनया धावनं कृतवान् ।
१ (घ)

बालकयोः मुखे किमर्थं म्लाने संजाते?

उत्तर:
अपराधभावनया बालकयोः मुखे ग्लाने संजायते ।
१ (ङ)

कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ?

उत्तर:
तौ सङ्कल्पं कृतवन्तौ यत् – अस्माकं कायेन वाचा मनसा वा कस्यापि पीड़ा न भवेत् तथा च कस्यापि पीडां निवारयितुं प्रयतामहे ।
१ (च)

तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः?

उत्तर:
‘तम्’ इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः ।
१ (छ)

कपिलः माधवी च कुत्र गतवन्तौ?

उत्तर:
कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ ।
१ (ज)

‘मातामही तं प्रसड्गं दृष्टवती, तौ आहूतवती च’ इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति?

उत्तर:
‘तौ’ इति शब्दः द्वितीया विभक्तौ अस्ति ।
२ (क)

वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत — नैवेद्यं विग्रहस्य पुरतः स्थापयति। (यथा – नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति। → नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्।)

उत्तर:
नैवेद्यं विग्रहस्य पुरतः स्थापितवान् ।
२ (ख)

नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति।

उत्तर:
नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान् ।
२ (ग)

गुरुः विसोबा तम् अध्यापयति।

उत्तर:
गुरुः विसोबा तम् अध्यापितवान् ।
२ (घ)

अहं शृणोमि।

उत्तर:
अहं श्रुतवान् / श्रुतवती ।
२ (ङ)

सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।

उत्तर:
सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः ।
२ (च)

नामदेवः शुनकस्य पृष्ठे अनुधावति।

उत्तर:
नामदेवः शुनकस्य पृष्ठे अनुधावितवान् ।
३ (क)

कथनानि कः / का / कं / कां च प्रति कथयति इति लिखत — कथां श्रोतुम् इच्छतः वा?

उत्तर:
मातामही — कपिलं माधवीं च प्रति ।
३ (ख)

अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।

उत्तर:
माधवी — मातामहीं प्रति ।
३ (ग)

किं देवेन सह अपि मित्रता सम्भवति?

उत्तर:
कपिलः — मातामहीं प्रति ।
३ (घ)

अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु।

उत्तर:
गुरुः बिसोबा — नामदेवं प्रति ।
३ (ङ)

नैवेद्यं गृह्यतां देव-भक्तिं मे ह्यचलां कुरु।

उत्तर:
मातामही — कपिलं माधवीं च प्रति ।
३ (च)

धिक् शुनकम्।

उत्तर:
कपिलः — मातामहीं प्रति ।
३ (छ)

नामदेवस्य कियत् दुःखं माधवी जातं स्यात् खलु?

उत्तर:
माधवी — कपिलं प्रति ।
३ (ज)

किं घृतपात्रम् आधृत्य?

उत्तर:
कपिलः माधवी च — मातामहीं प्रति ।
३ (झ)

अद्य अहं ज्ञातवान् यत् कपिलः सर्वेषु ईश्वरः निसति इति।

उत्तर:
कपिलः — मातामहीं प्रति ।
३ (ञ)

उत्तीर्णः भवान् परीक्षाम्।

उत्तर:
पाण्डुरङ्गः — नामदेवं प्रति ।
४ (क)

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत — देवः नामदेवं परितः भवति स्म। (यथा – पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत्। → पाण्डुरङ्गः कस्य मित्रम् आसीत्?)

उत्तर:
देवः कं परितः भवति स्म? (रेखाङ्कितपदं — नामदेवं)
४ (ख)

ईश्वरः सर्वेषु भूतेषु निवसति।

उत्तर:
ईश्वरः केषु निवसति? (रेखाङ्कितपदं — सर्वेषु भूतेषु)
४ (ग)

शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।

उत्तर:
शुनकः आगत्य मुखे कां धृत्वा धावितवान्? (रेखाङ्कितपदं — रोटिकां)
४ (घ)

शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।

उत्तर:
शुनकस्य स्थाने कः आविर्भूतवान्? (रेखाङ्कितपदं — पाण्डुरङ्गः)
४ (ङ)

आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।

उत्तर:
आत्मवत् सर्वभूतेषु यः पश्यति सः कः? (रेखाङ्कितपदं — पण्डितः)
५

घटनाक्रमानुसारं लिखत — (क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्। (ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्। (ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्। (घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्। (ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्। (च) नामदेवः मन्दिरं गतवान्।

उत्तर:
(च) नामदेवः मन्दिरं गतवान् । (ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान् । (क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान् । (घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान् । (ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान् । (ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान् ।
६

कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत।आगच्छन्तु, पायसं कुर्मः। …………. (क्षीर) सह तण्डुलाः पक्वाः। ……….. (शर्करा) विना कथं शक्यते। शीघ्रमेव ……….. (आपण) प्रति गत्वा शर्कराम् आनयतु। ……… (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता। ………. (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। …….. (मधुर) विना पायसं रुचिकरं न भवति। अधुना ……….. (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् ………. (अन्ये मधुरपदार्थाः) इति एकः वदति, ……. (तत्) विना जीवनम् अपूर्णम् इति अपरः। …….. (पायस) सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।

उत्तर:
क्रमेण विभक्तियोजनम् — क्षीरेण (क्षीर) सह तण्डुलाः पक्वाः। शर्करां (शर्करा) विना कथं शक्यते। शीघ्रमेव आपणं (आपण) प्रति गत्वा शर्कराम् आनयतु। आपणं (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करां (शर्करा) परितः पिपीलिकाः आगताः। मधुरं (मधुर) विना पायसं रुचिकरं न भवति। अधुना पायसं (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् (अन्ये मधुरपदार्थाः) इति एकः वदति, तेन (तत्) विना जीवनम् अपूर्णम् इति अपरः। पायसेन (पायस) सह एव भोजनं सरसम् इति अन्यः । तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।
७

अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत।कञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम् अददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन जलेन सर्वदा कृषिम् अकरोत्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपूजयन्। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि अक्षिपत्। क्रमशः अन्ये अपि अक्षिपन्। तेन नदी मलिना अभवत्, मीना: अम्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत्। सा नदीतीरम् आगत्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन्। सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम् अपूजयन् वृक्षरोपणं च अकुर्वन्।

उत्तर:
कञ्चित् ग्रामं निकषा एका नदी आसीत् / असितवती। नदी सर्वदा स्वच्छजलम् दत्तवती। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः। महिलाः पर्वसमये नदीम् पूजितवत्यः। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान्। क्रमशः अन्ये अपि क्षिप्तवन्तः। तेन नदी मलिना अभवत्, मीनाः मृतवन्तः। स्त्रियः रोगैः पीडिताः भूतवत्यः। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः वृक्षरोपणं च कृतवन्तः।
८ (क)

समस्तपदानि पाठात् चित्वा लिखत — घृतस्य पात्रम्, तत् (यथा – महान् आत्मा, तेषां → महात्मनाम्)

उत्तर:
घृतपात्रम् (घृतस्य पात्रम्, तत्)
८ (ख)

पाषाणस्य खण्डः, तम्

उत्तर:
पाषाणखण्डम् (पाषाणस्य खण्डः, तम्)
८ (ग)

प्रियः सुहृद्

उत्तर:
प्रियसखा (प्रियः सुहृद्)
८ (घ)

उदरे वेदना

उत्तर:
उदरवेदना (उदरे वेदना)
८ (ङ)

स्वीयः व्यवहारः

उत्तर:
स्वव्यवहारः (स्वीयः व्यवहारः)
८ (च)

जीवनस्य मूल्यानि

उत्तर:
जीवनमूल्यानि (जीवनस्य मूल्यानि)
८ (छ)

मातुलस्य गृहम्, तत्

उत्तर:
मातुलगृहम् (मातुलस्य गृहम्, तत्)
८ (ज)

नरेषु रत्नानि इव, तेषाम्

उत्तर:
नररत्नानाम् (नरेषु रत्नानि इव, तेषाम्)
८ (झ)

स्वीयं कर्तृत्वम्, तेन

उत्तर:
स्वकर्तृत्वेन (स्वीयं कर्तृत्वम्, तेन)
८ (ञ)

अपराधस्य भावना, तया

उत्तर:
अपराधभावनया (अपराधस्य भावना, तया)
८ (ट)

गुरोः उपदेशः, तम्

उत्तर:
गुरूपदेशम् (गुरोः उपदेशः, तम्)
८ (ठ)

दिने दिने

उत्तर:
प्रतिदिनम् (दिने दिने)
८ (ड)

राजा ऋषिः इव, तेषाम्

उत्तर:
राजर्षीणाम् (राजा ऋषिः इव, तेषाम्)

Other Chapters