SolveNCERT
SolveNCERT
Class 9 · SanskritNCERT 2026 Revised Syllabus

Chapter 10: णमो अरिहन्ताणम् (0904SK10)

R1 and R2 book- Sharda

Chapter code: 0904sk10 · Book: R1 and R2 book- Sharda · Class 9 Sanskrit

Find complete NCERT solutions for Class 9 Sanskrit, R1 and R2 book- Sharda Chapter 10. Every question has a clear, step-by-step answer for chapter code 0904SK10.

अभ्यासाद् जायते सिद्धिः(25 questions)

१ (क)

एकपदेन उत्तरं लिखत — ऋषभेण निर्मितस्य नगरस्य नाम किम् ?

उत्तर:
ऋषभेण निर्मितस्य नगरस्य नाम विनिता ।
१ (ख)

ऋषभस्य प्रसिद्धे द्वे कन्ये के ?

उत्तर:
ऋषभस्य प्रसिद्धे द्वे कन्ये ब्राह्मी सुन्दरी च ।
१ (ग)

कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि ?

उत्तर:
ब्राह्मीलिप्यां नैकानि शास्त्राणि लिपिबद्धानि ।
१ (घ)

विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान् ?

उत्तर:
विनिता नामकं राज्यं ऋषभः भरताय समर्पितवान् ।
१ (ङ)

ऋषभः बाहुबलिने किं राज्यं प्रदत्तवान् ?

उत्तर:
ऋषभः बाहुबलिने तक्षशिलां राज्यं प्रदत्तवान् ।
१ (च)

प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म ?

उत्तर:
प्रजाः भिक्षायां आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म ।
२ (क)

पूर्णवाक्येन उत्तरत — देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता ?

उत्तर:
जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः च इति एतादृश्याः अनेकाः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता।
२ (ख)

महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान् ?

उत्तर:
महाराजः कृषिकार्यं, विविधपदार्थैः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनं इत्यादि जीवनकौशलानि, काष्ठैः धातुभिः, शिलाभिः च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रजाः प्रशिक्षितवान् ।
२ (ग)

ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत् ?

उत्तर:
एकदा राजप्रासादे नृत्यकलां प्रदर्शयन्ती नर्तकी सहसा मरणं प्राप्तवती । अनया घटनया ऋषभदेवस्य मनः विक्षुब्धम् अभवत्। एषा घटना तस्य जीवनपरिवर्तिनी घटना आसीत्।
२ (घ)

ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत् ?

उत्तर:
ऋषभदेवस्य प्रपौत्रः श्रेयांसः ऋषभदेवाय पानार्थम् इक्षुरसं दत्तवान् । अनेन ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः अभवत्।
२ (ङ)

ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान् ?

उत्तर:
ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्।
२ (च)

जनानां मार्गदर्शनार्थं कं क्रमं रचितवान् ?

उत्तर:
ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः भिक्षुणी श्रावकः श्राविका च इति क्रमं रचितवान्।
३

समस्तपदानि लिखत — (क) महान् च असौ राजा च (ख) प्रजानां सुखम् (ग) मूलाः समस्याः (घ) भोजनस्य निर्माणम् (ङ) आर्थिकी स्थितिः (च) प्राप्तः आनन्दः येन सः (छ) विधिना लिखितम् (ज) गृहं गृहं प्रति (झ) ब्राह्मीनामा लिपिः

उत्तर:
समस्तपदानि — (क) महाराजः (ख) प्रजासुखम् (ग) मूलसमस्याः (घ) भोजननिर्माणम् (ङ) आर्थिकस्थितिः (च) प्राप्तानन्दः (छ) विधिलिखितम् (ज) प्रतिगृहम् (झ) ब्राह्मीलिपिः
४ (क)

वाक्यानि उदाहरणानुसारं परिवर्तयत — यथा— जनैः स्वयमेव निर्माणकार्यम् आरब्धम्। जनाः स्वयमेव निर्माणकार्यम् आरब्धवन्तः। — महाराजेन राज्यं समर्पितम् ।

उत्तर:
महाराजः राज्यं समर्पितवान्।
४ (ख)

केनापि तत् न चिन्तितम् ।

उत्तर:
कश्चित् अपि तत् न चिन्तितवान् ।
४ (ग)

ऋषभदेवेन दीर्घकालिकः उपवासः कृतः ।

उत्तर:
ऋषभदेवः दीर्घकालिकम् उपवासम् अकरोत्।
४ (घ)

जनैः जीवनपद्धतिः परिवर्तिता।

उत्तर:
जनाः जीवनपद्धतिं परिवर्तितवन्तः ।
४ (ङ)

ऋषभेण योजना कृता ।

उत्तर:
ऋषभः योजनां कृतवान्।
५ (क)

सन्धिं कुरुत — इति + अतः

उत्तर:
इति + अतः = इत्यतः
५ (ख)

च + इति

उत्तर:
च + इति = चेति
५ (ग)

देवस्य + अपि

उत्तर:
देवस्य + अपि = देवस्यापि
५ (घ)

तथा + एव

उत्तर:
तथा + एव = तथैव
५ (ङ)

इति + एतादृशाः

उत्तर:
इति + एतादृशाः = इत्येतादृशाः
५ (च)

ब्राह्मीद्वारा + एव

उत्तर:
ब्राह्मीद्वारा + एव = ब्राह्मीद्वारैव
५ (छ)

प्रस्थितः + अयम्

उत्तर:
प्रस्थितः + अयम् = प्रस्थितोऽयम्

Other Chapters