SolveNCERT
SolveNCERT
Class 9 · SanskritNCERT 2026 Revised Syllabus

Chapter 7: उपायं चिन्तयेत् प्राज्ञः तथा अपायं च चिन्तयेत् (0904SK07)

R1 and R2 book- Sharda

Chapter code: 0904sk07 · Book: R1 and R2 book- Sharda · Class 9 Sanskrit

Find complete NCERT solutions for Class 9 Sanskrit, R1 and R2 book- Sharda Chapter 7. Every question has a clear, step-by-step answer for chapter code 0904SK07.

अभ्यासाद् जायते सिद्धिः(28 questions)

१ (क)

अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत — नरस्य वृत्तं के जानन्ति ?

उत्तर:
आदित्यः चन्द्रः अनिलः अनलः द्यौः भूमिः हृदयं यमंः अहः रात्रिः उभे सन्ध्ये च ।
१ (ख)

धर्मबुद्धयः किं वीक्षन्ते ?

उत्तर:
मातृवत् परदारेषु, परद्रव्येषु लोष्ठवत्, सर्वभूतेषु आत्मवत्, धर्मबुद्धयः वीक्षन्ते ।
१ (ग)

कस्य जन्मनः फलं व्यर्थम् ?

उत्तर:
येन देशान्तरेषु भ्रमता बहुविधं भाषावेषादि न ज्ञातं, तस्य जन्मनः फलं व्यर्थम् ।
१ (घ)

पापबुद्धिः स्वपितरं किम् उक्तवान् ?

उत्तर:
पापबुद्धिः स्वपितरम् उक्तवान् – मदुक्तप्रकारेण वदतु ।
१ (ङ)

प्राज्ञः किं – किं चिन्तयेत् ?

उत्तर:
प्राज्ञः उपायं चिन्तयेत् अपायमपि चिन्तयेत् ।
१ (च)

मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति ?

उत्तर:
यः देशात् देशान्तरं व्रजति सः विद्यां वित्तं शिल्पं च प्राप्नोति ।
१ (छ)

पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थितः ?

उत्तर:
अहं मूर्खः, धर्मबुद्धेः प्रभावेण धनम् अर्जयिष्यामि इति चिन्तयित्वा पापबुद्धिः देशान्तरं प्रस्थितः ।
२ (क)

अधोलिखितवाक्येषु स्थूलाक्षरपदानि आश्रित्य प्रश्ननिर्माणं कुरुत — एनम् अपि वञ्चयित्वा सुखी भवामि।

उत्तर:
कं वञ्चयित्वा सुखी भवामि ? (स्थूलपदं – एनम्)
२ (ख)

सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः।

उत्तर:
किं स्वीकृत्य स्वग्रामं गच्छावः ? (स्थूलपदं – धनं)
२ (ग)

निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान्।

उत्तर:
कदा अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान् ? (स्थूलपदं – निशीथे)
२ (घ)

तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः।

उत्तर:
तत् आकर्ण्य सर्वे ते जनाः कीदृशाः सञ्जाताः ? (स्थूलपदं – विस्मयोत्फुल्ललोचनाः)
२ (ङ)

अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि ।

उत्तर:
अहम् एतत् शमीकोटरं केन प्रज्वालयामि ? (स्थूलपदं – वह्निना)
४ (क)

उदाहरणानुसारं भूतकालिकवाक्यानि वर्तमानकालिकवाक्येषु परिवर्तयत — राजपुरुषाः, पापबुद्धिं दण्डितवन्तः।

उत्तर:
राजपुरुषाः पापबुद्धिं दण्डयन्ति।
४ (ख)

पापबुद्धिः अत्यधिकं धनं सम्पादितवान्।

उत्तर:
पापबुद्धिः अत्यधिकं धनं सम्पादयति।
४ (ग)

पापबुद्धिः वनदेवतायाः समीपम् आगतवान्।

उत्तर:
पापबुद्धिः वनदेवतायाः समीपम् आगच्छति।
४ (घ)

अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्।

उत्तर:
अत्रान्तरे पापबुद्धिः शिरस्ताडयन् वदति ।
४ (ङ)

सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः।

उत्तर:
सर्वे जनाः धर्मबुद्धिं प्रशंसन्ति।
५ (क)

श्लोकानां भावार्थान् विचिन्त्य कोष्ठकात् समुचितपदैः रिक्तस्थानानि पूरयत — सूर्यः चन्द्रः ……… अग्निः आकाशः भूमिः जलं ……… यमः दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं …….. जानन्ति । (व्यवहारं / पवनः / हृदयं)

उत्तर:
(क) पवनः, हृदयं, व्यवहारं
५ (ख)

यः ……… न अटति, विविधदेशानां संस्कृतीः …. च न जानाति, पृथिवीपृष्ठे तस्य जन्म ……. भाति । (भाषाः / व्यर्थं / अन्यदेशेषु)

उत्तर:
(ख) अन्यदेशेषु, भाषाः, व्यर्थं
५ (ग)

सज्जनाः सर्वासु नारीषु ………. इव, अन्येषां ………. मृत्पिण्डम् इव, सर्वेषु प्राणिषु च …….. इव चिन्तयन्ति। (द्रव्येषु / स्वयम् / मातरः)

उत्तर:
(ग) मातरः, द्रव्येषु, स्वयम्
५ (घ)

बुद्धिमान् मनुष्यः ………. मार्गान् समस्यादूरीकरणस्य …….. च ……..। (कौशलानि / कार्यसाधनस्य / जानीयात्)

उत्तर:
(घ) कार्यसाधनस्य, कौशलानि, जानीयात्।
६ (क)

उदाहरणं दृष्ट्वा अधोलिखितानां पदानां विग्रहं मेलनं वा कुरुत — गुरुजनाज्ञया

उत्तर:
गुरुजनाज्ञया – गुरुजनानाम् आज्ञया
६ (ख)

वनदेवता

उत्तर:
वनदेवता – वनस्य देवता
६ (ग)

वित्तस्य अभावात्

उत्तर:
वित्ताऽभावात् – वित्तस्य अभावात्
६ (घ)

बुद्धिप्रभावेण

उत्तर:
बुद्धिप्रभावेण – बुद्धेः प्रभावात्
६ (ङ)

धरण्याः पीठे

उत्तर:
धरणीपीठे – धरण्याः पीठे
६ (च)

राजकुले

उत्तर:
राजकुले – राज्ञः कुले
७

अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत।

उत्तर:
कथाक्रमः — (क) कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म। (ख) ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ। (ग) यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ। (घ) द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ। (ङ) भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति। (च) राजपुरुषाः पापबुद्धिं दण्डितवन्तः।

Other Chapters