Class 9 · SanskritNCERT 2026 Revised Syllabus
Chapter 6: मनःपूतं समाचरेत् (0904SK06)
R1 and R2 book- Sharda
Chapter code: 0904sk06 · Book: R1 and R2 book- Sharda · Class 9 Sanskrit
Find complete NCERT solutions for Class 9 Sanskrit, R1 and R2 book- Sharda Chapter 6. Every question has a clear, step-by-step answer for chapter code 0904SK06.
अभ्यासाद् जायते सिद्धिः(50 questions)
१ (क)
अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत — लोकः कस्य आचरणम् अनुकरोति ?
उत्तर:
लोकः श्रेष्ठजनस्य आचरणम् अनुकरोति ।
१ (ख)
कीदृशी वाणी वक्तव्या ?
उत्तर:
सत्यपूतां वाणी वक्तव्या ।
१ (ग)
लक्ष्मीः कम् उपैति ?
उत्तर:
लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति ।
१ (घ)
उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति ?
उत्तर:
उत्तमजनाः पुनः पुनः विघ्नैः प्रतिहन्यमानाः अपि कार्यं प्रारभ्य न परित्यजन्ति ।
१ (ङ)
धर्मस्य लक्षणानि कानि ?
उत्तर:
धृतिः क्षमा दमः अस्तेयं शौचम् इन्द्रियनिग्रहः धीः विद्या सत्यम् अक्रोधः एतत् दशकम् धर्मलक्षणम् ।
१ (च)
सकलाः कलाः कस्मात् सिध्यन्ति ?
उत्तर:
सकलाः कलाः अभ्यासात् सिध्यन्ति ।
१ (छ)
सम्पदः कं वृणते ?
उत्तर:
सम्पदः विमृश्यकारिणं वृणते ।
२ (क)
अधोलिखितेषु श्लोकांशेषु रिक्तस्थानानि पूरयत — ………. परमापदां पदम्।
उत्तर:
अविवेकः
२ (ख)
सन्तः ……….. अन्यतरद् भजन्ते।
उत्तर:
परीक्ष्य
२ (ग)
दैवं निहत्य कुरु ………….. आत्मशक्त्या ।
उत्तर:
पौरुषम्
२ (घ)
स यत् ………….. कुरुते ।
उत्तर:
प्रमाणं
२ (ङ)
धीर्विद्या सत्यमक्रोधो ……………… धर्मलक्षणम्।
उत्तर:
दशकम्
३ (क)
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत — नीचैः विघ्नभयेन कार्यं न प्रारभ्यते ।
उत्तर:
कैः विघ्नभयेन कार्यं न प्रारभ्यते ?
३ (ख)
सकलाः कलाः अभ्यासात् सिध्यन्ति ।
उत्तर:
सकलाः कलाः कथम् / कस्मात् सिध्यन्ति ?
३ (ग)
वस्त्रपूतं जलं पिबेत् ।
उत्तर:
कीदृशं जलं पिबेत् ?
३ (घ)
लक्ष्मीः पुरुषसिंहम् उपैति।
उत्तर:
लक्ष्मीः कम् उपैति ?
३ (ङ)
सन्तः परीक्ष्य अन्यतरद् भजन्ते ।
उत्तर:
के परीक्ष्य अन्यतरद् भजन्ते ?
३ (च)
क्रियां सहसा न विदधीत ।
उत्तर:
कां सहसा न विदधीत ?
४ (क)
अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत (दृष्टिपूतं न्यसेत् पादं…) — अस्मिन् श्लोके प्रथमं क्रियापदं किम् ?
उत्तर:
न्यसेत्
४ (ख)
कं न्यसेत् ?
उत्तर:
पादम्
४ (ग)
कीदृशं पादं न्यसेत् ?
उत्तर:
दृष्टिपूतम्
४ (घ)
द्वितीयं किं क्रियापदम् अस्ति ?
उत्तर:
पिबेत्
४ (ङ)
किं पिबेत् ?
उत्तर:
जलम्
४ (च)
कीदृशं जलं पिबेत् ?
उत्तर:
वस्त्रपूतम्
४ (छ)
तृतीयं किं क्रियापदम् अस्ति ?
उत्तर:
वदेत्
४ (ज)
कां वदेत् ?
उत्तर:
वाचम्
४ (झ)
कीदृशीं वाणीं वदेत् ?
उत्तर:
सत्यपूताम्
४ (ञ)
चतुर्थं किं क्रियापदम् अस्ति ?
उत्तर:
समाचरेत्
४ (ट)
श्लोके आगतं न्यास्यम् — मनः पूतम् ।
उत्तर:
मनःपूतम्
५ (क)
मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत — लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः ………. समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति । ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव ……….. प्रयत्नं कृत्वा अपि यदि …………. न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।
उत्तर:
(क) पुरुषस्य, धीराः, लक्ष्यं
५ (ख)
पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति । तथैव ………… अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति । येषां …………… पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तमं स्वीकुर्वन्ति । किन्तु अज्ञानाः अन्येषाम् …….. श्रुत्वा तदनुसारेण प्रवर्तन्ते ।
उत्तर:
(ख) नूतनम्, बुद्धिः, अभिप्राय
६ (क)
श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत — सर्वा: ……….. अभ्यासेन (सिध्यन्ति) । …………. कलाः अभ्यासात् (सिध्यन्ति) । ध्यानमौनादि (अपि) ………….. (सिध्यति) । अभ्यासस्य ………. किम् (अस्ति) ?
उत्तर:
(क) क्रियाः सकलाः, अभ्यासात्, दुष्करम्
६ (ख)
श्रेष्ठः यत् यत् ………… इतरः जनः तत् तत् एव (आचरति) । सः यत् ……….. कुरुते, लोकः तत् ………..।
उत्तर:
(ख) आचरति, प्रमाणं, अनुवर्तते
७ (क)
यथोचितं मेलनं कुरुत — पुराणमित्येव न साधु सर्वम्
उत्तर:
पुराणमित्येव न साधु सर्वम् → मालविकाग्निमित्रम्
७ (ख)
प्रारभ्य चोत्तमजनाः न परित्यजन्ति
उत्तर:
प्रारभ्य चोत्तमजनाः न परित्यजन्ति → नीतिशतकम्
७ (ग)
यद्यदाचरति श्रेष्ठः
उत्तर:
यद्यदाचरति श्रेष्ठः → श्रीमद्भगवद्गीता
७ (घ)
धृतिः क्षमा दमोऽस्तेयम्
उत्तर:
धृतिः क्षमा दमोऽस्तेयम् → मनुस्मृतिः
७ (ङ)
उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः
उत्तर:
उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः → पञ्चतन्त्रम्
८ (क)
रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत — धृतिः क्षमा दमोऽस्तेयम्।
उत्तर:
दमः + अस्तेयम्
८ (ख)
पुराणमित्येव न साधु सर्वम् ।
उत्तर:
पुराणम् + इति + एव
८ (ग)
विघ्नैः पुनरपि प्रतिहन्यमानाः ।
उत्तर:
पुनः + अपि
८ (घ)
प्रारभ्य चोत्तमजनाः न परित्यजन्ति।
उत्तर:
च + उत्तमजनाः
८ (ङ)
विघ्नविहता विरमन्ति मध्याः ।
उत्तर:
विघ्न + विहता
८ (च)
लोकस्तदनुवर्तते।
उत्तर:
लोकः + तत् + अनुवर्तते
८ (छ)
सन्तः परीक्ष्यान्यतरद्भजन्ते।
उत्तर:
परीक्ष्य + अन्यतरत् + भजन्ते
९ (क)
विग्रहवाक्यानि आधृत्य समस्तपदानि लिखत — विघ्नैः विहताः (कार्यात्) विरमन्ति।
उत्तर:
विघ्नविहताः
९ (ख)
वस्त्रेण पूतं जलं पिबेत् ।
उत्तर:
वस्त्रपूतम्
९ (ग)
पुरुषः सिंहः इव तम् उपैति लक्ष्मीः।
उत्तर:
पुरुषसिंहम्
९ (घ)
उत्तमाः जनाः न परित्यजन्ति ।
उत्तर:
उत्तमजनाः
९ (ङ)
न विवेकः परमापदां पदम्।
उत्तर:
अविवेकः