SolveNCERT
SolveNCERT
HomeSolutionsSanskritCh 8क्रियाकलापः
Class 9 · SanskritNCERT 2026 Revised Syllabus

Chapter 8: बिलस्य वाणी न कदापि मे श्रुता

क्रियाकलापः — 5 questions with step-by-step answers.

क्रियाकलापः(5 questions)

१ (क)

‘संकटसमये धैर्यस्य महत्त्वम् भवति’ इति भावं कथायाः अनुसारं चर्चयत।

उत्तर:
कथायां शृगालः संकटसमये भयभीतः न अभवत्, अपितु धैर्येण विचारं कृत्वा स्वात्मानं अरक्षत्। संकटकाले धैर्यमेव मनुष्यस्य परमं मित्रं भवति।
१ (ख)

‘बुद्धिः बलात् श्रेष्ठा भवति’ इति शृगालस्य बुद्धिमत्ताम् आधारीकृत्य परस्परं चर्चा कुरुत।

उत्तर:
सिंहः बलवान् आसीत् परन्तु शृगालः बुद्धिमत्तायाः प्रयोगं कृत्वा तं वञ्चयित्वा स्वप्राणान् अरक्षत्। एतेन सिद्धम् यत् बुद्धिशक्तिः शारीरिकबलात् सदैव श्रेष्ठा भवति।
१ (ग)

भवतः जीवनस्य कमपि अनुभवम् चर्चयत यदा प्रत्युत्पन्नमतित्वेन भवान् सङ्कटात् मुक्तः अभवत्।

उत्तर:
यदा वयं सहसा आगते संकटे शीघ्रं बुद्ध्या उपायं चिन्तयामः, तदा जटिलसमस्यातः अपि सुलभतया मुक्ताः भवामः।
२ (क)

अनुच्छेदः — "यदि भवतः समक्षं भयस्य किमपि कारणं भवेत् तर्हि किं करिष्यति?"

उत्तर:
यदि मम समक्षं कदापि भयस्य किमपि कारणं भवेत्, तर्हि अहं भयभीता न भविष्यामि। अहं धैर्येण शान्तचित्तेन च तस्याः स्थितेः सामनां करिष्यामि। अहं स्वस्य प्रत्युत्पन्नमतित्वात् (चतुरतायाः) उपयोगं कृत्वा संकटस्य उपायं चिन्तयिष्यामि। आवश्यकतायाम् अहं ज्येष्ठानां शिक्षकाणां च सहायतां ग्रहीष्यामि।
२ (ख)

सिंहस्य चित्रं निर्माय तस्य विषये पञ्च संस्कृतवाक्यानि लिखत।

उत्तर:
क. सिंहः वनानाम् राजा (वनराजः) भवति। ख. सः अतीव पराक्रमी बलवान् च पशुः अस्ति। ग. सिंहः मांसाहारी जीवः अस्ति तथा गुहायां निवसति। घ. तस्य उच्चगर्जनं श्रुत्वा वने सर्वे पशवः भयभीताः भवन्ति। ङ. सिंहः भारतस्य राष्ट्रियचिन्हे अपि शोभते।

Other Chapters